link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
mp3 audio
pdf

श्री रमणमन्त्र मत्ऱ्‌कास्तवः

ओम् तत्सदाख्यं पुरुSअं गुहेशं
भक्तार्तिनाशाय शरीरवन्तम् |
मोदस्वरूत्पं मधुरस्वभावं
त्वामात्मनाथं रमणम् भजामि || १


नवो नवो यो विलसत्यजस्रं
पुमान् पुराणो निखिलात्मभूतह् |
तं कालकालम् परिपूर्नभावं
त्वामत्मनाथं रमणं भजामि || २


मोक्षार्थिलोकस्य अह्सरण्यमेकं
मौनेन सम्बोधित भक्तलोकम् |
गुरुं गुरूणामजमादिदेवं
त्वामात्मनाथं रमणं भजामि || ३


भरं वहन्तं भजतां सुखेन
दयाम्बुधिं दीनजने स्वभावात् |
अज्ञानमागोप्यविलोकयन्तर्ं
त्वामात्मनाथं रमणं भजामि || ४


गतिं समस्तस्य cअराcअरस्य
प्रशान्तगम्भीरतया विभान्तम् |
स्तव्यं स्तवेनाcअलितस्वभावं
त्वामात्मनाथं रमणं भजामि || ५


वरेण्यमेकं तमसः परस्तात्
वपुस्मतामाप्ततमं नतानाम् |
शमं दिशन्तं मधुरस्मितेन
त्वामात्मनाथं रमणं भजामि || ६


तेजो दिशन्तं मतये’पि सन्तं
निगूढमन्तर्-ह्ऱ्‌दि सर्वजन्तो~ह् |
अनन्तद्ऱ्‌ग्रूपकमप्रमेयं
त्वामात्मनाथं रमणं भजामि || ७


स्रीमानयं दीन इति प्रभेदान्
विहाय साम्येन समीक्षमाणम् |
स्वस्थं सदा स्वे सहजे समाधौ
त्वामात्मनाथं रमणं भजामि || ८


रसस्वरूपं रमणं
निजानां स्वरूत्पभक्तिं जनयन्तमक्ष्णा |
मोहग्रहोच्चाटनमान्त्रिकं च
त्वामात्मनाथं रमणं भजामि || ९


मतप्रभेदानपि पालयन्तं
गरीयसीं भक्तिमुदीरयन्तम् |
मतिप्रसादम् भजतां ददानं
त्वामात्मनाथं रमणं भजामि || १०


णान्तेन नाम्ना ह्ऱ्‌दयंगमेन
दिशन्तम् आनन्दममानुषम् स्वम् |
दिशन्तमुत्साहबलं प्रक्ऱ्‌ष्तं
त्वामात्मनाथं रमणं भजामि || ११


यतो ममात्मा भवसि त्वमेव
ततो न वाcयं ममकिञिचिदस्ति |
यथा तवेष्टं कुरु मां तथैव
त्वामात्मनाथं रमणं भै || १२